2-Ayodhyakand / Sarga 9
Shloka 63
Shloka
यमस्य वा मां विषयं गतामितोनिशम्य कुब्जे प्रतिवेदयिष्यसि।
वनं गते वा सुचिराय राघवे
समृद्धकामो भरतो भविष्यति॥ ६३॥
