2-Ayodhyakand / Sarga 61
Shloka 27
Shloka
इमाम् गिरम् दारुण शब्द सम्श्रिताम् ।निशम्य राजा अपि मुमोह दुह्खितः ।
ततः स शोकम् प्रविवेश पार्थिवः ।
स्वदुष्कृतम् च अपि पुनः तदा अस्मरत् ॥२-६१-२७॥
