2-Ayodhyakand / Sarga 44
Shloka 3
Shloka
यस्तवार्ये गतः पुत्रस्त्यक्त्वा राज्यं महाबलः।साधु कुर्वन् महात्मानं पितरं सत्यवादिनम्॥ ३॥
शिष्टैराचरिते सम्यक्शश्वत् प्रेत्य फलोदये।
रामो धर्मे स्थितः श्रेष्ठो न स शोच्यः कदाचन॥ ४॥
