2-Ayodhyakand / Sarga 37
Shloka 34
Shloka
अथोत्तमान्याभरणानि देविदेहि स्नुषायै व्यपनीय चीरम्।
न चीरमस्याः प्रविधीयतेति
न्यवारयत् तद् वसनं वसिष्ठः॥ ३४॥
