2-Ayodhyakand / Sarga 17
Shloka 22
Shloka
तस्मिन् प्रविष्टे पितुरन्तिकं तदाजनः स सर्वो मुदितो नृपात्मजे।
प्रतीक्षते तस्य पुनः स्म निर्गमं
यथोदयं चन्द्रमसः सरित्पतिः॥ २२॥
