2-Ayodhyakand / Sarga 16
Shloka 43
Shloka
स राघवस्तत्र तदा प्रलापान्शुश्राव लोकस्य समागतस्य।
आत्माधिकारा विविधाश्च वाचः
प्रहृष्टरूपस्य पुरे जनस्य॥ ४३॥
