Shloka
त्रैविद्या मां सोमपाः पूतपापायज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते।
ते पुण्यमासाद्य सुरेन्द्रलोक-
मश्नन्ति दिव्यान्दिवि देवभोगान्॥९-२०॥
Shloka Pad
त्रै-विद्याः माम् सोमपाः पूत-पापाःयज्ञैः इष्ट्वा स्वर्गतिम् प्रार्थयन्ते।
ते पुण्यम् आसाद्य सुरेन्द्र-लोकं
अश्नन्ति दिव्यान् दिवि देव-भोगान्॥९-२०॥
