Shloka
सहस्रयुगपर्यन्तमहर्यद् ब्रह्मणो विदुः।रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः॥८-१७॥
Shloka Pad
सहस्र-युग-पर्यन्तम् अहः यत् ब्रह्मणः विदुः।रात्रिम् युग-सहस्र-अन्ताम् ते अहोरात्र-विदः जनाः॥८-१७॥
