Shloka
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः।प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु॥७-८॥
Shloka Pad
रसः अहम् अप्सु कौन्तेय प्रभा अस्मि शशि-सूर्ययोः।प्रणवः सर्व-वेदेषु शब्दः खे पौरुषम् नृषु॥७-८॥
