Shloka
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः।यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते॥७-२॥
Shloka Pad
ज्ञानम् ते अहम् सविज्ञानम् इदम् वक्ष्यामि अशेषतः।यत् ज्ञात्वा न इह भूयः अन्यत् ज्ञातव्यम् अवशिष्यते॥७-२॥
