Shloka
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः।शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते॥६-४१॥
Shloka Pad
प्राप्य पुण्य-कृताम् लोकान् उषित्वा शाश्वतीः समाः।शुचीनाम् श्रीमताम् गेहे योग-भ्रष्टः अभिजायते॥६-४१॥
