Shloka
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि।इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्॥५-९॥
Shloka Pad
प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन् अपि।इन्द्रियाणि इन्द्रिय-अर्थेषु वर्तन्ते इति धारयन्॥५-९॥
