Shloka
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः।भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम्॥४-३॥
Shloka Pad
सः एव अयम् मया ते अद्य योगः प्रोक्तः पुरातनः।भक्तः असि मे सखा च इति रहस्यम् हि एतत् उत्तमम्॥४-३॥
