Shloka
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः।शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः॥३-८॥
Shloka Pad
नियतम् कुरु कर्म त्वं कर्म ज्यायः हि अकर्मणः।शरीर-यात्रा अपि च ते न प्रसिद्ध्येत् अकर्मणः॥३-८॥
