Shloka
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः।अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः॥३-३६॥
Shloka Pad
अथ केन प्रयुक्तः अयं पापम् चरति पूरुषः।अनिच्छन् अपि वार्ष्णेय बलात् इव नियोजितः॥३-३६॥
