Shloka
न चैतद्विद्मः कतरन्नो गरीयोयद्वा जयेम यदि वा नो जयेयुः।
यानेव हत्वा न जिजीविषाम-
स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः॥२-६॥
Shloka Pad
न च एतत् विद्मः कतरत् नः गरीयःयत् वा जयेम यदि वा नः जयेयुः।
यान् एव हत्वा न जिजीविषामः
ते अवस्थिताः प्रमुखे धार्तराष्ट्राः॥२-६॥
