Shloka
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः।इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता॥२-५८॥
Shloka Pad
यदा संहरते च अयम् कूर्मः अङ्गानि इव सर्वशः।इन्द्रियाणि इन्द्रिय-अर्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता॥२-५८॥
