Shloka
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते।स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्॥२-४०॥
Shloka Pad
न इह अभिक्रम-नाशः अस्ति प्रत्यवायः न विद्यते।स्वल्पम् अपि अस्य धर्मस्य त्रायते महतः भयात्॥२-४०॥
