Shloka
नासतो विद्यते भावो नाभावो विद्यते सतः।उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः॥२-१६॥
Shloka Pad
न असतः विद्यते भावः न अभावः विद्यते सतः।उभयोः अपि दृष्टः अन्तः तु अनयोः तत्त्व-दर्शिभिः॥२-१६॥
