Shloka
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत।स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव॥१८-७३॥
Shloka Pad
नष्टः मोहः स्मृतिः लब्धा त्वत् प्रसादात् मया अच्युत।स्थितः अस्मि गत-सन्देहः करिष्ये वचनम् तव॥१८-७३॥
