Shloka
तत्रैवं सति कर्तारमात्मानं केवलं तु यः।पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः॥१८-१६॥
Shloka Pad
तत्र एवम् सति कर्तारम् आत्मानम् केवलम् तु यः।पश्यति अकृत-बुद्धित्वात् न सः पश्यति दुर्मतिः॥१८-१६॥
