Shloka
तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः।दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः॥१७-२५॥
Shloka Pad
तत् इति अनभिसन्धाय फलम् यज्ञ-तपः-क्रियाः।दान-क्रियाः च विविधाः क्रियन्ते मोक्ष-काङ्क्षिभिः॥१७-२५॥
