Shloka
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्परः।अनन्येनैव योगेन मां ध्यायन्त उपासते॥१२-६॥
Shloka Pad
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्-पराः।अनन्येन एव योगेन माम् ध्यायन्तः उपासते॥१२-६॥
