Shloka
इत्यर्जुनं वासुदेवस्तथोक्त्वास्वकं रूपं दर्शयामास भूयः।
आश्वासयामास च भीतमेनं
भूत्वा पुनः सौम्यवपुर्महात्मा॥११-५०॥
Shloka Pad
इति अर्जुनम् वासुदेवः तथा उक्त्वास्वकम् रूपम् दर्शयामास भूयः।
आश्वासयामास च भीतम् एनम्
भूत्वा पुनः सौम्य-वपुः महात्मा॥११-५०॥
