Shloka
एतच्छ्रुत्वा वचनं केशवस्यकृताञ्जलिर्वेपमानः किरीटी।
नमस्कृत्वा भूय एवाह कृष्णं
सगद्गदं भीतभीतः प्रणम्य॥११-३५॥
Shloka Pad
एतत् श्रुत्वा वचनम् केशवस्यकृत-अञ्जलिः वेपमानः किरीटी।
नमस्कृत्वा भूयः एव आह कृष्णम्
सगद्गदम् भीत-भीतः प्रणम्य॥११-३५॥
