Shloka
यथा प्रदीप्तं ज्वलनं पतङ्गाविशन्ति नाशाय समृद्धवेगाः।
तथैव नाशाय विशन्ति लोकास्-
तवापि वक्त्राणि समृद्धवेगाः॥११-२९॥
Shloka Pad
यथा प्रदीप्तम् ज्वलनम् पतङ्गाःविशन्ति नाशाय समृद्ध-वेगाः।
तथा एव नाशाय विशन्ति लोकाः
तव अपि वक्त्राणि समृद्ध-वेगाः॥११-२९॥
