Shloka
अमी च त्वां धृतराष्ट्रस्य पुत्राःसर्वे सहैवावनिपालसङ्घैः।
भीष्मो द्रोणः सूतपुत्रस्तथासौ
सहास्मदीयैरपि योधमुख्यैः॥११-२६॥
Shloka Pad
अमी च त्वाम् धृतराष्ट्रस्य पुत्राःसर्वे सह एव अवनिपाल-सङ्घैः।
भीष्मः द्रोणः सूत-पुत्रः तथा असौ
सह अस्मदीयैः अपि योध-मुख्यैः॥११-२६॥
