Shloka
अमी हि त्वां सुरसङ्घा विशन्तिकेचिद्भीताः प्राञ्जलयो गृणन्ति।
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः
स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः॥११-२१॥
Shloka Pad
अमी हि त्वाम् सुर-सङ्घाः विशन्तिकेचित् भीताः प्राञ्जलयः गृणन्ति।
स्वस्ति इति उक्त्वा महर्षि-सिद्ध-सङ्घाः
स्तुवन्ति त्वाम् स्तुतिभिः पुष्कलाभिः॥११-२१॥
