Shloka
त्वमक्षरं परमं वेदितव्यंत्वमस्य विश्वस्य परं निधानम्।
त्वमव्ययः शाश्वतधर्मगोप्ता
सनातनस्त्वं पुरुषो मतो मे॥११-१८॥
Shloka Pad
त्वम् अक्षरम् परमम् वेदितव्यम्त्वम् अस्य विश्वस्य परम् निधानम्।
त्वम् अव्ययः शाश्वत-धर्म-गोप्ता
सनातनः त्वम् पुरुषः मतः मे॥११-१८॥
