Shloka
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम्।मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम्॥१०-३८॥
Shloka Pad
दण्डः दमयताम् अस्मि नीतिः अस्मि जिगीषताम्।मौनम् च एव अस्मि गुह्यानाम् ज्ञानम् ज्ञानवताम् अहम्॥१०-३८॥
