Shloka
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान्।कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे॥१-२२॥
Shloka Pad
यावत् एतान् निरीक्षे अहम् योद्धु-कामान् अवस्थितान्।कैः मया सह योद्धव्यम् अस्मिन् रण-समुद्यमे॥१-२२॥
