Shloka
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्।तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते॥८-२५॥
Shloka Pad
धूमः रात्रिः तथा कृष्णः षण्मासाः दक्षिण-आयनम्।तत्र चान्द्रमसम् ज्योतिः योगी प्राप्य निवर्तते॥८-२५॥
