Shloka
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः।स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत्॥४-१८॥
Shloka Pad
कर्मणि अकर्म यः पश्येत् अकर्मणि च कर्म यः।सः बुद्धिमान् मनुष्येषु सः युक्तः कृत्स्न-कर्म-कृत्॥४-१८॥
