Shloka
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः।तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम्॥४-१३॥
Shloka Pad
चातुर्वर्ण्यम् मया सृष्टम् गुण-कर्म-विभागशः।तस्य कर्तारम् अपि माम् विद्धि अकर्तारम् अव्ययम्॥४-१३॥
