Shloka
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्।इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते॥३-६॥
Shloka Pad
कर्म-इन्द्रियाणि संयम्य यः आस्ते मनसा स्मरन्।इन्द्रियार्थान् विमूढात्मा मिथ्याचारः सः उच्यते॥३-६॥
