Shloka
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः।मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः॥३-२३॥
Shloka Pad
यदि हि अहं न वर्तेयम् जातु कर्मणि अतन्द्रितः।मम वर्त्म अनुवर्तन्ते मनुष्याः पार्थ सर्वशः॥३-२३॥
