Shloka
कार्पण्यदोषोपहतस्वभावःपृच्छामि त्वां धर्मसम्मूढचेताः।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्॥२-७॥
Shloka Pad
कार्पण्य-दोष-उपहत-स्वभावःपृच्छामि त्वाम् धर्म-सम्मूढ-चेताः।
यत् श्रेयः स्यात् निश्चितम् ब्रूहि तत् मे
शिष्यः ते अहम् शाधि माम् त्वाम् प्रपन्नम्॥२-७॥
