Shloka
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते।तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि॥२-६७॥
Shloka Pad
इन्द्रियाणाम् हि चरताम् यत् मनः अनुविधीयते।तत् अस्य हरति प्रज्ञाम् वायुः नावम् इव अम्भसि॥२-६७॥
