Shloka
रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन्। आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति॥२-६४॥
Shloka Pad
राग-द्वेष-विमुक्तैः तु विषयान् इन्द्रियैः चरन्। आत्म-वश्यैः विधेय-आत्मा प्रसादम् अधिगच्छति॥२-६४॥
