Shloka
गुरूनहत्वा हि महानुभावान्श्रेयो भोक्तुं भैक्ष्यमपीह लोके।
हत्वार्थकामांस्तु गुरूनिहैव
भुञ्जीय भोगान् रुधिरप्रदिग्धान्॥२-५॥
Shloka Pad
गुरून् अहत्वा हि महानुभावान्श्रेयः भोक्तुम् भैक्ष्यम् अपि इह लोके।
हत्वा अर्थ-कामान् तु गुरून् इह एव
भुञ्जीय भोगान् रुधिर-प्रदिग्धान्॥२-५॥
