Shloka
यदहंकारमाश्रित्य न योत्स्य इति मन्यसे।मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति॥१८-५९॥
Shloka Pad
यत् अहंकारम् आश्रित्य न योत्स्ये इति मन्यसे।मिथ्या एषः व्यवसायः ते प्रकृतिः त्वाम् नियोक्ष्यति॥१८-५९॥
