Shloka
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते।ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः॥१२-१॥
Shloka Pad
एवम् सतत-युक्ताः ये भक्ताः त्वाम् पर्युपासते।ये च अपि अक्षरम् अव्यक्तम् तेषाम् के योग-वित्तमाः॥१२-१॥
