Shloka
तस्मात्प्रणम्य प्रणिधाय कायंप्रसादये त्वामहमीशमीड्यम्।
पितेव पुत्रस्य सखेव सख्युः
प्रियः प्रियायार्हसि देव सोढुम्॥११-४४॥
Shloka Pad
तस्मात् प्रणम्य प्रणिधाय कायम्प्रसादये त्वाम् अहम् ईशम् ईड्यम्।
पिता इव पुत्रस्य सखा इव सख्युः
प्रियः प्रियायाः अर्हसि देव सोढुम्॥११-४४॥
