Shloka
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो।योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम्॥११-४॥
Shloka Pad
मन्यसे यदि तत् शक्यम् मया द्रष्टुम् इति प्रभो।योगेश्वर ततः मे त्वम् दर्शय आत्मानम् अव्ययम्॥११-४॥
