Shloka
तस्मात्त्वमुत्तिष्ठ यशो लभस्वजित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम्।
मयैवैते निहताः पूर्वमेव
निमित्तमात्रं भव सव्यसाचिन्॥११-३३॥
Shloka Pad
तस्मात् त्वम् उत्तिष्ठ यशः लभस्वजित्वा शत्रून् भुङ्क्ष्व राज्यम् समृद्धम्।
मया एव एते निहताः पूर्वम् एव
निमित्त-मात्रम् भव सव्य-साचिन्॥११-३३॥
