Shloka
रूपं महत्ते बहुवक्त्रनेत्रंमहाबाहो बहुबाहूरुपादम्।
बहूदरं बहुदंष्ट्राकरालं
दृष्ट्वा लोकाः प्रव्यथितास्तथाहम्॥११-२३॥
Shloka Pad
रूपम् महत् ते बहु-वक्त्र-नेत्रम्महा-बाहो बहु-बाहु-ऊरु-पादम्।
बहु-उदरम् बहु-दंष्ट्रा-करालम्
दृष्ट्वा लोकाः प्रव्यथिताः तथा अहम्॥११-२३॥
