Shloka
रुद्रादित्या वसवो ये च साध्याविश्वेऽश्विनौ मरुतश्चोष्मपाश्च।
गन्धर्वयक्षासुरसिद्धसङ्घा
वीक्षन्ते त्वां विस्मिताश्चैव सर्वे॥११-२२॥
Shloka Pad
रुद्र-आदित्याः वसवः ये च साध्याःविश्वे अश्विनौ मरुतः च उष्मपाः च।
गन्धर्व-यक्ष-असुर-सिद्ध-सङ्घाः
वीक्षन्ते त्वाम् विस्मिताः च एव सर्वे॥११-२२॥
