Shloka
अनादिमध्यान्तमनन्तवीर्य-मनन्तबाहुं शशिसूर्यनेत्रम्।
पश्यामि त्वां दीप्तहुताशवक्त्रं
स्वतेजसा विश्वमिदं तपन्तम्॥११-१९॥
Shloka Pad
अनादि-मध्य-अन्तम् अनन्त-वीर्यम्अनन्त-बाहुम् शशि-सूर्य-नेत्रम्।
पश्यामि त्वाम् दीप्त-हुताश-वक्त्रम्
स्व-तेजसा विश्वम् इदम् तपन्तम्॥११-१९॥
