Shloka
अनेकबाहूदरवक्त्रनेत्रंपश्यामि त्वां सर्वतोऽनन्तरूपम्।
नान्तं न मध्यं न पुनस्तवादिं
पश्यामि विश्वेश्वर विश्वरूप॥११-१६॥
Shloka Pad
अनेक-बाहु-उदर-वक्त्र-नेत्रम्पश्यामि त्वाम् सर्वतः अनन्त-रूपम्।
न अन्तम् न मध्यम् न पुनः तव आदिम्
पश्यामि विश्वेश्वर विश्वरूप॥११-१६॥
