Shloka
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता।यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः॥११-१२॥
Shloka Pad
दिवि सूर्य-सहस्रस्य भवेत् युगपत् उत्थिता।यदि भाः सदृशी सा स्यात् भासः तस्य महात्मनः॥११-१२॥
